|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.136. अध्यायः 136
Mahabharata - Udyoga Parva - Chapter Topics
विदुलोपाख्यानोपसंहारः ॥ 1 ॥ विदुलोपाख्यानश्रवणफलकथनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
मातोवाच। 5-136-0x(3790)(36469)
नैव राज्ञा दरः कार्यो जातु कस्यांचिदापदि।
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥ 5-136-1(36470)
दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते।
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतीः ॥ 5-136-2(36471)
शत्रुनेके प्रपद्यन्ते प्रजहत्यपरे पुनः ।
अन्ये तु प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ॥ 5-136-3(36472)
य एवात्यन्तसुहृदस्त एनं पर्युपासते।
अशक्तयः स्वस्तिकामा बद्धवत्सा इला इव ॥ 5-136-4(36473)
शोचन्तमनुशोचन्ति पतितानिव बान्धवान् ।
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः ॥ 5-136-5(36474)
ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः ।
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ॥ 5-136-6(36475)
प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव।
विदधत्या समाश्वासमुक्तं तेजोविवृद्धये ॥ 5-136-7(36476)
यदेतत्संविजानासि यदि सम्यग्ब्रवीम्यहम्।
कृत्वा सौम्यमिवात्मानं जायायोत्तिष्ठ सञ्जय ॥ 5-136-8(36477)
अस्ति नः कोशनिचयो महानविदितस्तव।
तमहं वेद नान्यस्तमुपसंपादयामि ते ॥ 5-136-9(36478)
सन्ति नैकशता भूयः सुहृदस्तव सञ्जय ।
सुखदुःखसहा वीर संग्रामादनिवर्तिनः ॥ 5-136-10(36479)
तादृशा हि सहाया वै पुरुषस्य बुभूषतः।
इष्टं जिहीर्षतः किंचित्सचिवाः शत्रुकर्शन ॥ 5-136-11(36480)
तस्यास्त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः ।
तमस्त्वपागमत्तस्य सुचित्रार्थपदाक्षरम् ॥ 5-136-12(36481)
पुत्र उवाच। 5-136-13x(3791)
उदके नौरियं धार्या वक्तव्यं प्रवणे मया।
यस्य मे भवती नेत्री भविष्यद्भूतिदर्शिनी ॥ 5-136-13(36482)
अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् ।
किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ॥ 5-136-14(36483)
अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात्।
उद्यच्छाम्येष शत्रूणां नियमार्थं जायय च ॥ 5-136-15(36484)
कुन्त्युवाच। 5-136-16x(3792)
सदश्च इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः।
तच्चकार तथा सर्वं यथावदनुशासनम् ॥ 5-136-16(36485)
इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् ।
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ॥ 5-136-17(36486)
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा।
महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ॥ 5-136-18(36487)
इदं पुंसवनं चैव वीराजननमेव च।
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते ॥ 5-136-19(36488)
विद्याशूरं तपःशूरं दानशूरं तपस्विनम् ।
ब्राह्मया श्रिया दीप्यमानं साधुवादे च संमतम् ॥ 5-136-20(36489)
अर्चिष्मन्तं बलोपेतं महाभागं महारथम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥ 5-136-21(36490)
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम् ॥ ॥ 5-136-22(36491)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षट्त्रिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-136-1 दरो भयम् ॥ 5-136-4 इला धेनवः ॥ 5-136-10 शतार्हा अनिवर्तिन इति कo खo पाठः। शतार्हाः शतवेतनयोग्या इति रत्नगर्भः ॥ 5-136-12 स्वल्पचेतसोपि तस्य तमोपागमदिति संबन्धः ॥ 5-136-13 उदके भूरियं धार्या मर्तव्यं प्रवणे मया इति झo पाठः । तत्रायमर्थः। उदके मज्जन्तीव भूः पित्र्यं राज्यं ।(धूरिति पाठेपि स एवार्थः) इयं मया धार्या मग्नं राज्यं वा उद्धर्तव्यम्। प्रवणे प्रपाते वा युद्धाख्ये वा मर्तव्यं नतु एवमेव निर्व्यापारेण स्थेयम्। नेत्री शिक्षयित्री। उदके सूर्यवद्यस्मिन्सक्तव्यं प्रवणे मया इति डo पाठः ॥ 5-136-14 अपरापरं उत्तरोत्तरम्। प्रतिवदन् प्रतिकूलं वदन् ॥ 5-136-15 बान्धवात् बन्धुतः । उद्यच्छामि उद्यमं करोमि। नियमार्थं निग्रहार्थम् ॥ 5-136-19 पुंसवनं पुत्रप्रसवकरम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|